(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.85. अध्यायः 085
Mahabharata - Udyoga Parva - Chapter Topics
दूतैः श्रीकृष्णागमनं ज्ञातवतो धृतराष्ट्रस्याज्ञया दुर्योधनेन पथि तदाराधनाय तत्रतत्र सभानिर्मापणम् ॥ 1 ॥ श्रीकृष्णेन तदनवलोकनेनैव गमनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-85-0x(3645)(34789)
तदा दूतैः समाज्ञाय आयान्तं मधुसूदनम्।
धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् ॥ 5-85-1(34790)
द्रोणं च सञ्जयं चैव विदुरं च महामतिम् ।
दुर्योदनं सहामात्यं हृष्टरोमाऽब्रवीदिदम् ॥ 5-85-2(34791)
अद्भुतं महादाश्चर्यं श्रूयते कुरुनन्दन ।
स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहेगृहे ॥ 5-85-3(34792)
सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः ।
पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च ॥ 5-85-4(34793)
उपायास्यति दाशार्हः पाण्डवार्थे पराक्रमी ।
स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः ॥ 5-85-5(34794)
तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरोऽहि सः।
तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे ॥ 5-85-6(34795)
स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः ।
पूजितो हि सुखाय स्यादसुखः स्यादपूजितः ॥ 5-85-7(34796)
स चेत्तुप्यति दाशार्ह उपचरैररिन्दमः ।
कृष्णात्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ॥ 5-85-8(34797)
तस्य पूजार्थमद्यैव संविधस्त्व परन्तप ।
सभाः पथि विधीयन्तां सर्वकामसमन्विताः ॥ 5-85-9(34798)
यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै ।
तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ॥ 5-85-10(34799)
वैशम्पायन उवाच। 5-85-11x(3646)
ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम्।
ऊचुःक परममित्येवं पूजयन्तोऽस्य तद्वचः ॥ 5-85-11(34800)
तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा।
सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे ॥ 5-85-12(34801)
ततो देशेषु देशेषु रमणीयेषु भागशः ।
सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः ॥ 5-85-13(34802)
आसनानि विचित्राणि युतानि विविधैर्गुणैः ।
स्त्रियो गन्धानलङ्कानारान्सूक्ष्माणि वसनानि च ॥ 5-85-14(34803)
गुणवन्त्यन्नपानानि भोज्यानि विविधानि च।
माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ॥ 5-85-15(34804)
विशेवतश्च वासार्थं सभां ग्रामे वृकस्थले।
विदधे कौरवो राजा बहुरत्नां मनोरमाम् ॥ 5-85-16(34805)
एतद्विधाय वै सर्वं देवार्हमतिमानुषम् ।
आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा ॥ 5-85-17(34806)
ताः सभाः केशवः सर्वा रत्नानि विविधानि च।
असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् ॥ ॥ 5-85-18(34807)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चशीतितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-85-8 अभिप्रायान् मनोरथान् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.